दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे । नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥
dānā mṛgo na vāraṇaḥ purutrā carathaṁ dadhe | nakiṣ ṭvā ni yamad ā sute gamo mahām̐ś carasy ojasā ||
दा॒ना । मृ॒गः । न । वा॒र॒णः । पु॒रु॒ऽत्रा । च॒रथ॑म् । द॒धे॒ । नकिः॑ । त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज॑सा ॥ ८.३३.८